पूर्वम्: ६।३।२१
अनन्तरम्: ६।३।२३
 
सूत्रम्
ऋतो विद्यायोनिसम्बन्धेभ्यः॥ ६।३।२२
काशिका-वृत्तिः
ऋतो विद्यायोनिसम्बन्धेभ्यः ६।३।२३

ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च उत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवसी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋतः इति किम्? आचर्यपुत्रः। मातुलपुत्रः। विद्यायोनिसम्बन्धेभ्यस् तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसम्बन्धवाचिनि एव उत्तरपदे यथा स्यात्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम् होतृगृहम्। पितृगृहम्।
न्यासः
ऋतो विद्यायोनिसम्बन्धेभ्यः। , ६।३।२२

विद्या च योनिश्चेति विद्यायोनी, तत्कृतः सम्बन्दो येषां ते विद्यायोनिसम्बन्धाः। कृतशब्दस्य वृत्तावप्रयोगः; गम्यमानार्थत्वात्(), यथा--गुडधाना इत्यत्र मिश्रशब्दस्य। "ऋतो विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं कर्तव्यम्()" इति। तदित्यनेन विद्यायोनिसम्बन्धा उभयेऽपि निर्दिश्यन्ते, तेषां पूर्वपदबूतानामुत्तरपदभूतानां च ग्रहणं कत्र्तव्यम्()। गृह्रते येन तत्? ग्रहणम्(), येन ते गृह्रन्ते तादृशं व्याख्यानं कत्र्तव्यमित्यर्थः। किं पुनस्तद्व्याख्यानम्? किमर्थं तत्कत्र्तव्यम्()? इत्याह--"विद्यायोनिवाचिन्येव" इत्यादि। तत्रेदं व्याख्यानम्()--इहोङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामभिप्राया लक्ष्यन्ते, "ऋतो विद्यायोनिसम्बन्धेभ्यः" इत्येष महान्? सूत्रप्रबन्धः, यदि ह्रविद्यायोनिसम्बन्धवाचिन्युत्तरपदेऽलुगभीष्टः स्यात्(), एवं सत्यविद्यायोनिसम्बन्धादित्येवं ब्राऊयात्()। अथ वा--सम्बन्धग्रहणमपि न कुर्यात्(), न हि किञ्चिदृकारान्तं विद्यावाचि योनिवाचि वाऽसम्बन्धमस्ति, तत्रान्तरेणापि सम्बन्धग्रहणं विद्यायोनिसम्बन्धवाचिन इति विज्ञास्यते, तत्? किं सम्बन्धग्रहणेन! तदेतस्मान्महतः सूत्रप्रबन्धाद्विद्यायोनिसम्बन्धवाचिन्युत्तरपद आचार्यस्यायमलुगभीष्ट इति लक्ष्यत इति। "होतुः" इति। "ऋत उत्()" ६।१।१०७ इत्युत्त्वम्(), रपरत्वम्(), "रात्सस्य" ८।२।२४ इति सकारलोपः॥
बाल-मनोरमा
ऋतो विद्यायोनिसंबन्धेभ्यः ९६६, ६।३।२२

ऋतो विद्यमा। एकत्वे बहुवचनम्।

तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति। अलुक् स्यादिति। "उत्तरपदे परत"इति शेषः।विद्यासंबन्धवाचिनमुदाहरति--होतुरन्तेवासीति। ऋग्वेदविहितकर्मविशेषकर्ता होता। अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः। होतुः पुत्र इति। विद्यासंबन्धवाचिन उदाहरणान्तरमिदम्। अथ योनिसंबन्धवाचिनमुदाहरति--पितुरन्तेवासीति। पितुःपुत्र इति च। ननु "होतृधनं" पितृधन"मित्यत्राऽप्यलुक् स्यादित्यत आह--विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति। "विद्यायोनिसंबन्धेभ्यः" इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः। पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः। "होतृधनं""पितृधन"मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठ()आ अलुगिति भावः। अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव "होतुःपुत्र" इत्यादि सिद्धम्।